|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.254. अध्यायः 254
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति ज्ञानादिस्ताधनप्रतिपादकव्यासवाक्यनुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
व्यास उवाच। 12-254-0x(6259)(75595)
मनः प्रसृजते भावं बुद्धिरध्यवसायिनी।
हृदयं प्रियाप्रिये वेद त्रिविधा कर्मवेदना॥ 12-254-1(75596)
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा परो मतः॥ 12-254-2(75597)
बुद्धिरात्मा मनुष्यस्य बुद्धिरेवात्मनो गतिः।
यदा विकुरुते भाव तदा भवति सा मनः॥ 12-254-3(75598)
इन्द्रियाणां पृथग्भावाद्बुद्धिर्विक्रियतेऽसकृत्।
शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते॥ 12-254-4(75599)
पश्यती भवते दृष्टी रसती रसनं भवेत्।
जिघ्रती भवति घ्राणं बुद्धिर्विक्रियते पृथक्॥ 12-254-5(75600)
इन्द्रियाणीति तान्याहुस्तेष्वदृश्योऽधितिष्ठति।
तिष्ठती पुरुषे बुद्धिस्त्रिषु भावेषु वर्तते॥ 12-254-6(75601)
कदाचिल्लभते प्रीतिं कदाचिदपि शोचति।
न सुखेन न दुःखेन कदाचिदिह युज्यते॥ 12-254-7(75602)
सेयं भावात्मिका भावांस्त्रीनेताननुवर्तते।
सरितां सागरो भर्ता महावेलामिवोर्मिमान्॥ 12-254-8(75603)
यदा प्रार्थयते किंचित्तदा भवति सा मनः।
अधिष्ठानानि वै बुद्ध्यां पृथगेतानि संस्मरेत।
इन्द्रियाण्येवमेतानि विजेतव्यानि कृत्स्नशः॥ 12-254-9(75604)
सर्वाण्येवानुपूर्व्येण यद्यदाऽनुविधीयते।
अविभागगता बुद्धिर्भावे मनसि वर्तते। 12-254-10c` प्रवर्तमानं तु रजः सत्वमप्यनुवर्तते॥' 12-254-10(75605)
ये चैव भावा वर्तन्ते सर्व एष्वेव ते त्रिषु।
अन्वर्थाः संप्रवर्तन्ते रथनेमिमरा इव॥ 12-254-11(75606)
प्रदीपार्थं मनः कुर्यादिन्द्रियैर्बुद्धिसत्तमैः।
निश्चरद्भिर्यथायोगमुदासीनैर्यदृच्छया॥ 12-254-12(75607)
एवं स्वभावमेवेदमिति विद्वान्न मुह्यति।
अशोचन्नप्रहृष्यन्हि नित्यं विगतमत्सरः॥ 12-254-13(75608)
न चात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः।
प्रवर्तमानैरनयैर्दुर्धर्षैरकृतात्मभिः॥ 12-254-14(75609)
तेषां तु मनसा रश्मीन्यदा सम्यङ्क्तियच्छति।
तदा प्रकाशतेऽस्यात्मा दीपदीप्ता यथाऽऽकृतिः॥ 12-254-15(75610)
सर्वेषामेव भूतानां मनस्युपरते यथा।
प्रकाशं भवते सर्वं तथेदमुपधार्यताम्॥ 12-254-16(75611)
यथा वारिचरः पक्षी न लिप्यति जले चरन्।
विमुक्तात्मा तथा योगी गुणदोषैर्न लिप्यते॥ 12-254-17(75612)
एवमेव कृतप्रज्ञो न दोषैर्विषयांश्चरन्।
असज्जमानः सर्वेषु कथंचन न लिप्यते॥ 12-254-18(75613)
त्यक्त्वा पूर्वकृतं कर्म रतिर्यस्य सदाऽऽत्मनि।
सर्वभूतात्मभूतस्य गुणवर्गेष्वसज्जतः॥ 12-254-19(75614)
सत्वमात्मा प्रसरति गुणान्वाऽपि कदाचन।
न गुणा विदुरात्मानं गुणान्वेद स सर्वदा॥ 12-254-20(75615)
परिद्रष्टा गुणानां च परिस्रष्टा यथातथम्।
क्षेतक्षेत्रज्ञयोरेतदन्तरं विद्धि सूक्ष्मयोः॥ 12-254-21(75616)
सृजतेऽत्र गुणानेक एको न सृजते गुणान्।
पृथग्भूतौ प्रकृत्या तौ संप्रयुक्तौ च सर्वदा॥ 12-254-22(75617)
यथा मत्स्योऽद्भिरन्यः स्यात्संप्रयुक्तौ तथैव तौ।
मशकोदुम्बरौ वाऽपि संप्रयुक्तौ यथा सह॥ 12-254-23(75618)
इषीका वा यथा मुञ्जे पृथक्च सह चैव च।
तथैव सहितावेतावन्योन्यस्मिन्प्रतिष्ठितौ॥ ॥ 12-254-24(75619)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुःपञ्चाशदधिकद्विशततमोऽध्यायः॥ 254॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|